SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७२६] (०३) प्रत सूत्रांक [७२६] दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह दसविहे दविवाणुओगे पं० सं०-दबियाणुओगे १ माउयाणुओगे २ एगडियाणुओगे ३ करणाणुओगे १ अप्पितणपिते ५ भाविताभाविते ६ पाहिराबाहिरे ७ सासयासासते ८ तहणाणे ९ अतहणाणे १० (सू० ७२७) 'दसविहे दविए'त्यादि, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्दा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगच, तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र 'दबियाणु ओगे'त्ति यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति-गच्छति तांस्तान् पर्यायान दूयते वा तेस्तैः पर्यापायरिति द्रव्य-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि|| सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रब्यमित्यादि द्रव्यानुयोगः १, तथा 'माउयाणुओगे'त्ति इह मातृकेव मातृका-प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो, यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुसत्तिदर्शनाद् अनुसादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमजसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादब्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा दीप 84%9 SEKASHARE अनुक्रम [९१७] Sanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~964~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy