________________
आगम
(०३)
प्रत
सूत्रांक
[७२६]
दीप
अनुक्रम
[१७]
Educat
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ७२६ ]
स्थान [१०],
उद्देशक [-],
गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यश्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणात् 'इंदसेणा वारिसेण'त्ति द्रष्टव्यमिति । 'रायहाणीओ'त्ति राजा धीयते विधीयते अभिषिच्यते यासु ता राजधान्यः- जनपदानां मध्ये प्रधाननगर्यः, 'चंपा' गाहा, चम्पानगरी अङ्गजन|पदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, 'हत्थिणपुरं'ति नागपुरं कुरुजनपदे काम्पिल्यं पाञ्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृहं मगधेष्विति एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात् मासस्यान्तर्द्धिस्त्रिर्वा प्रविशतां त्वाज्ञादयो दोषा इति एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धपदिशतावार्थजनपदेषु पत्रिंशतेर्नगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथ भाष्ये, यदाह - "दसरायहाणिगहणा सेसाणं सूयणा कया हो । मासस्संतो दुगतिग ताओं अइंतंमि आणाई ॥ १ ॥ दोषाश्चेह - "तरुणावेसित्थिविवाहरायमाईसु होइ सइकरणं । आउजगीयसद्दे इत्थीसद्दे य सवियारे ॥ २ ॥” इति । [ दशराजधानीग्रहणाच्छेषाणां सूचना कृता भवति मासान्तर्द्विः त्रिः ताः प्रविशत आज्ञादि ॥ १ ॥ तरुणा वेश्यास्त्री विवाहरागा (राजा) दिषु भवति स्मृतिकरणं आतोद्यगीतशब्दे खीशब्दे च सविकारे ॥ १ ॥ ] 'एताखिति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिदश राजानः चक्रवर्त्तिनः प्रत्रजिता |इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानौ न प्रमजिती नरकं च गताविति, तत्र भरतसगरौ
For FPs Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~960~
janibrary.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः