SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६६३] दीप अनुक्रम [८०२] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [९], उद्देशक [-1, मूलं [ ६६३ ] धूर्त-सङ्गानां स्वजनं तत्प्रतिपादकं धूतमिति ६ 'विमोहो ति मोहसमुत्थेषु परपोष सर्वेषु प्रादुर्मुसेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्य तपसः प्रतिपादकं श्रुर्त-ग्रन्थ उपधानश्रुतमिति ८ महती परिज्ञा- अन्तक्रियालक्षणा सम्यग्विधेयेतिप्रतिपादनपरं महापरिज्ञेति ९ ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयत इति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह - 'नवे' त्यादि, ब्रह्मचर्यस्य मैथुनत्रतस्य गुप्तयो- रक्षाप्रकाराः ब्रह्मचर्यगुप्तयः, 'विविक्तानि स्त्रीपशुपण्डकेभ्यः पृथग्वर्त्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च 'सेविता' तेषां सेवको भवति ब्रह्मचारी, अन्यथा तद्वाधासम्भवात्, एतदेव सुखार्थं व्यतिरेकेणाह -नो स्त्रीसंसक्तानि-नो देवीनारीतिरक्षीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः - गवादिभिः, तत्संसक्तौ हि तस्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः- नपुंसकानि, तत्संसक्ती खीसमानो दोषः प्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते 'कथा' धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा 'कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया' इत्यादिकां प्रागुक्तां वा जात्यादिचातूरूपां कथविता - तत्कथको भवति ब्रह्मचारीति द्वितीयं २, 'नो इत्थिगणाई'तीह सूत्रं दृश्यते केवलं 'नो इत्थिठाणाई'ति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्रमानुसारित्वाच्चास्येतीदमेव व्याख्यायते-नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः । खीभिः सहैकासने नोपविशेद्, उत्थितास्वपि हि तासु मुहूर्त्ते नोषविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या -नो स्त्रीगणानां पर्युपासको भवेदिति ३ नो खीणामिन्द्रियाणि नयननासिकादीनि मनो ह For Final P मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~ 892~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy