SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ५७ ] दीप अनुक्रम [ ५७ ] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] जीवानाम् वैविध्यं, जीवादिकं वस्तु 'अस्ति' विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो 'जदत्थि चणं'ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवं चास्य प्रयोगः - अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति 'लोके' पश्चास्तिकावात्मके लोक्मते- प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्व' निरवशेषं द्वयोः पदयोः स्थानयोः पक्षयोर्विवक्षितवस्तु तद्विपर्ययलक्षणायोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयारं 'ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवश्चेत्यर्थः, 'तद्यथे' त्युदाहरणोपन्यासे, 'जीवचेव अजीवचेव त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन ह्रस्वः, चकारी समुच्चयार्थी, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'चेय' इति वा एवकारार्थः 'चिय धेय एवार्थ' इति वचनात् ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं द्विविधं, जीवाजीव भेदादिति शेषं तथैव । अथ त्रसेत्यादिकया नवसूच्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति- 'तसे वेवेत्यादि, तत्र त्रसनामकर्मोदयत स्त्रस्यन्तीति त्रसा:- द्वीन्द्रियादयः स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः - पृथिव्यादयः, सह योन्या- उत्पत्तिस्थानेन सयोनिकाः संसारिणस्तद्विपर्यासभूताः अयोनिकाः सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः सिद्धाः, एवं सेन्द्रियाः - संसारिणः, For Parts Only मूलं [ ५७ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~80~ ray.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy