________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५९] +गाथा
(०३)
SCAGAR
प्रत सूत्रांक [५५९]
चित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणिपंग'त्ति मणीनां-आभ-1 रणभूतानामङ्गभूता:-कारणभूताः मणयो वा अङ्गानि-अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अणिपण'त्ति | अनग्नकारकत्वादनना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तनधाना वृक्षाः कल्पवृक्षा इति । 'दंडनीइत्ति दण्डनं दण्ड:-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिः-नयो दण्डनीतिः, 'हकारें'त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हकारमात्र, तेनैवासौ हतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्त्तत इति । तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थेकुलकरकाले महत्यपराधे माकारोदण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिकारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हकारमाकाराविति, आह च-"पढमवीयाण पढमा तइयचउत्थाण अभिनवा बीया । पंचमछहस्स य सत्तमस्स तइया अभिणवा उ ॥१॥” इति, [प्रथमद्वितीययोः प्रथमा तृतीयचतु-1 योरभिनवा द्वितीया । पञ्चमषष्ठसप्तमानां तृतीयाऽभिनवा तु ॥१॥] तथा परिभाषणं परिभाषा-अपराधिनं प्रति | कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डलं-इशितं क्षेत्र तत्र बन्धो-नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, 'चारक' गुप्तिगृह 'छविच्छेदों' हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये, आह य
।
गाथा दीप अनुक्रम [६४६-६५८]
N
arayan
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~800~