________________
आगम
(०३)
प्रत
सूत्रांक
[५५२]
दीप
अनुक्रम
[६०३]
स्था० ६६
Education in
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ५५२]
स्थान [७],
| मेइ संतेवि सेसए मुयइ । संववहारपरतया वबहारो लोगमिच्छंतो ॥१॥” [ संव्यवहारपरतया लोकमिच्छन् व्यवहारो वहुतरत्वादेव तं गमयति सतोऽपि शेषकान्मुचत्येव ॥ १ ॥ ] इति ३ तथा ऋजु वक्रविपर्ययादभिमुखं श्रुतं ज्ञानं यस्यासी ऋजुश्रुतः, ऋजु वा - वर्त्तमानमतीतानागतवऋपरि त्यागाद्वस्तु सूत्रयति - गमयतीति ऋजुसूत्रः उक्तं च- "उज्जं रिडं सुर्य नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ । सुत्तयइ वा जमुज्जुं वत्थं तेणुज्जुमुत्तोत्ति ॥ १ ॥ [ऋजु अवक्रं श्रुतं ज्ञानं ऋजु श्रुतमस्य सोऽयमृजुश्रुतः सूत्रयति वा यहजु वस्तु तेन ऋजुसूत्र इति ॥ १ ॥ ] अयं हि वर्त्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यश्वात्खपुष्पवत्, तथा परकीयमध्यवस्तु निष्फलत्वात् खकुसुमवत्, तस्माद्वर्त्तमानं स्वं वस्तु तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचनभिन्नमापो जलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आह च " तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवज्जइ वत्थुमुज्जसुय ॥ १ ॥” त्ति ४, [तस्मान्निजकं साम्प्रतकालीनं लिंगवचनभिन्नमपि नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु ॥ १ ॥ ] तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति, आह च- "सवणं सबइ स तेणं व सप्पए वत्थु जं तभ सहो । तस्सऽत्थपरिग्गहओ नओवि सदोत्ति हेतुव्व ॥ १ ॥” इति, [ शपनं शपति स तेन वा शप्यते वस्तु यत्ततः शब्दः । तस्यार्थपरिग्रहात् नयोऽपि शब्द इति हेतुरिव हेत्वर्थप्रतिपादकः ॥ १॥ ] अयं च नामस्थापनाद्रव्य कुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत्,
For Full
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~786~
Janibrary.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः