________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५४५]
(०३)
प्रत
सूत्रांक
[५४५]
दीप अनुक्रम [५९६]
द्वितीये द्वे द्वे एव ॥१॥ एवमेकैकां भिक्षा क्षिपेद्यावत् एकैकसप्तकेऽन्तिमे दिने सप्त सप्त गृह्णाति ॥२॥ अथवैकैकां दत्तिं (हापयेत् ) एकैकसप्तके यावत् सप्त एपोऽप्यादेशोऽस्ति सिंहगतिसदृशः॥३॥] 'अहामुत्तंति यथासूत्र-सूत्रानतिकमेण यावत्करणात् 'अहाअस्थं यथार्थ-निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, 'अहातचं' यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण अन्वर्थसत्यापनेनेत्यर्थः 'अहामग्गं' मार्ग:-क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमननेत्यर्थः, 'अहाकप्प' यथाकल्प-कल्पनीयानतिक्रमेण प्रतिमासमाचारानतिक्रमेण वा 'सम्म कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, 'फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'पालिय'ति पुनः पुनरुपयोगप्रतिजागरणेन रक्षिता, सोहियत्ति शोभिता तत्समाप्ती गुर्वादिप्रदानशेषभोजनासेवनेन शोधिता पा-अतिचारवर्जनेन तदालोचनेन वा, तीरिय'त्ति तीरं-पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, 'किट्टिय'त्ति कीचिता पारणकदिने अयमयं
चाभिग्रहविशेषः कृत आसीद् अस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमक्षं कीर्तनादिति, 'आरादहिय'त्ति एभिरेव प्रकारैः सम्पूर्णनिष्ठां नीता भवतीति, प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवं-"उचिए काले वि
हिणा पत्तं जं फासियं तयं भणियं । तह पालियं तु असई सम्म उवओगपडियरियं ॥१॥ गुरुदाणसेसभोयणसेवणयाए |उ सोहियं जाण । पुन्नेवि घेवकालावत्थाणा तीरियं होइ ॥२॥ भोयणकाले अमुगं पचक्खायंति भुंज किट्टिययं । आराहियं पयारेहिं संममेएहिं निट्ठवियं ॥ ३ ॥” इति । [विधिना यदुचिते काले प्राप्तं तरस्पृष्टं भणितं असकृत्सम्यगुपयोगप्रतिचरितं पालितं तथैव ॥१॥ गुरुदानशेषभोजनसेवनतया शोधितं जानीहि पूर्णेऽपि स्तोककालावस्थानात्तीर्ण भ
*
*
4%
IndiaTary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~~778~