________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४७७]
(०३)
+
-+
---
प्रत सूत्रांक [४७७] दीप अनुक्रम
-मिक्षुः 'अर्हति' योग्यो भवति 'गण' गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, 'सद्धिति श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वात् गणधारणानहत्वं, एवं सर्वत्र भावना कार्या, | 'पुरुषजात' पुरुषप्रकारः, इह च पद्भिः स्थानेरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १, तथा 'सत्यं सयो-जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा 'मेधावि'मयोदया धावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवत्तको भवति, अथवा मेधा-श्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं-सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्थात्, उक्तं च
-"सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहियाहियसंपत्ति संसारुच्छेयणं परमं ॥" [कथं शिष्याणां परमां संसारोच्छेदिनी ज्ञानादीनामधिकाधिक संपत्ति तथाविधः स करिष्यति ॥१॥] तथा “कह सो जयज अगीओ कह वा कुणज अगीयनिस्साए । कह था करेउ गच्छं सवालवुहाउलं सो उ ॥२॥" इति ४, [कथं सोऽगीतार्थो यततां कथं | वागीतार्थनिश्रया करोतु स बालवृद्धाकुलं गच्छं च स कथं करोतु (प्रवर्त्तयतु) ॥१॥] तथा 'शक्तिमत्' शरीरमन्त्रतत्रपरिवारादिसामर्थ्ययुक्त, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अपाहिगरण"न्ति अल्प
अविद्यमानमधिकरणं-स्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा, तद्ध्यनुवर्तकतया गणस्याहानिकारक भवतीति ६,8 लाग्रन्थान्तरे खेवं गणिनः स्वरूपमुक्तम्-"मुत्तत्थे निम्माओ पियदधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो
40-594
[५२०]
46555
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 708~