________________
आगम
(०३)
प्रत
सूत्रांक
[४६०]
गाथा
॥१-५||
दीप
अनुक्रम
[ ४९७
-५०३]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३४५ ॥
मुनि दीपरत्नसागरेण संकलित
स्थान [५],
Educationa
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३],
मूलं [ ४६० ] + गाथा १-५
आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विभक्तिलोपात् शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासीं योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि - यथास्वतिथिष्ववत्तनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च दीर्घत्वं प्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतो मुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । 'विसमं' गाहा, विषमं वैषम्येण प्रवाल-पलवाङ्कुर स्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रबालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रयादिनो-वृक्षाः परिणमन्तिअङ्कुरोद्भेदाद्यवस्थां यान्ति, तथां अनृतुषु अस्त्रकालं ददति - प्रयच्छन्ति पुष्पफलं यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूताः माघादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावन संवत्सरश्चेति पर्यायौ ॥ 'पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रस-माधुर्यस्निग्धतालक्षणं पुष्पफलाना च ददात्यादित्यः तथास्वभावत्वात्, तथाविधोदकाभा | वेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक् यथाभिमतं निष्पद्यते सस्यं शास्यादिधान्यं स लक्षणत आदित्य संवत्सर उच्यत इति शेष इति । 'आइच' गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तता इति मन्तव्यं, तत्र क्षणो-मुहूर्त्तः लवः - एकोनपञ्चाशदुच्छ्रासप्रमाणो दिवसः - अहोरात्रः ऋतुः - मासद्वयप्रमाणः 'परिणमन्ति' अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि - भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण' त्ति त्वमपि शिष्य । तं तथैव जानीहीति । संवत्सर व्याख्यानमिदं तत्त्वार्थटीकायनुसारेण
संवत्सरस्य पञ्च भेदा: एवं तस्य दिनमानं
For Pale Only
~693~
५ स्थाना० उद्देशः ३ संवत्सराः [सू० ४५८४६०
॥ ३४५ ॥