________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [3], मुलं [४६०] + गाथा १-५ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४६०]
गाथा ||१-५||
दीप अनुक्रम [४९७-५०३]]
ताख्ये संवत्सरे अधिकमासका पततीति, प्रमाणसंवत्सरः पञ्चविधा, तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः, स च उक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युकलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेषः, 'उ' इति ऋतसंवत्सरः, त्रिंशदहोरात्रप्रमाणेदिशभिः ऋतुमासैः सावनमासकर्ममासपर्यायैर्निष्पन्नः, षष्टचधिकाहोरात्रशतत्रयमान इति ३६०, 'आइचेत्ति आदित्यसंवत्सरः, स च त्रिंशदिनान्यद्धै चेति, एवंविधमासद्वादशकनिष्पन्नः पट्पट्यधिकाहोरात्रशतत्रयमान इति ३६६, | अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह-'समगं' गाहा, समर्कसमतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपौर्णमास्यादितिथ्या सह सम्बन्ध योजयन्ति-कुर्वन्ति, पदमुक्त भवतियानि नक्षत्राणि यासु तिथिपूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तम्-"जेहो वच मूलेण सावणो धणिवाहिं । अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥१॥" इति [ज्येष्ठो ब्रजति मूलेन श्रावणो ब्रजति धनिष्ठाभिः । आर्द्रया च मार्गशीर्षः शेषा नक्षत्रनामानः मासाः॥१॥] तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कात्र्तिक्या अनन्तरं हेमन्तः पौष्या अनन्तरं शिशिरतुरित्येवमवतरन्तीति भावः, यश्च न
नव अतीव उष्ण-धर्मों यत्र सोऽत्युष्णः, न-नैवातिशीत:-अतिहिमः, बहूदकं यत्र स बहुदकः, स च भवति लक्षणतो & नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वानक्षत्रसंवत्सर इति, अस्यां च गाथायां पश्चमाघमावंशको पञ्चकलावितीय विचित्रेति छंदोविनिरुपदिश्यते, 'बहुला विचित्त'त्ति गाथालक्षणात् पत्ति-पंचकलो गण इति । 'ससिंगाहा 'ससि'त्ति |
Anmurary.org
| संवत्सरस्य पञ्च भेदा: एवं तस्य दिनमानं
~692~