________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [४००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४००]
यान्योऽन्यमधिकरणोत्सादनेनाभ्युत्थाता भवति यतत इत्यर्थः इत्येक, एवं गणस्यापीति द्वितीय, तथा हिंसा-वधं सा-18 ध्वादेः प्रेक्षते-गवेषयतीति हिंसाप्रेक्षीति तृतीय, हिंसार्थमेवापभ्राजनार्थं वा 'छिद्राणि प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थं, अभीक्ष्णमितीह पुनःशब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना-अङ्गाष्टकुब्यप्रश्नादयः सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुङ्ग इत्यर्थः इति पञ्चमं । तथा आचार्यो-1 |पाध्यायस्येति समाहारद्वन्दः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य 'गणंसि'त्ति गणे 'विग्रहस्थानानि' कलहाश्रयाः,
आचार्योपाध्यायौ द्वयं वा 'गणे' गणविषये 'आज्ञा' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न विधेयमिदमित्येवंरूपां 'नो'नैव सम्यग्-औचित्येन प्रयोक्का भवतीति साधवः परस्परं कलहायन्ते असम्यग्नियोगात दुर्मिय-1 त्रितत्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य। पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथम, तथा स एव 'आहाराइणियाए'त्ति रलानि द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रलैः-ज्ञानादिभिर्चवहरतीति रानिका-बृहत्पर्यायो यो यो रालिको यथारालिकं तद्भावस्तत्ता तया यधारातिकतया-यथाज्येष्ठं कृतिकर्म-वन्दनक | विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीय, तथा स एवं | यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् 'धारयति' धारणाविषयीकरोति तानि काले काले-यथावसरं न सम्यग
दीप
अनुक्रम [४३४]
*4-95
JAMEaurainininml
Mjaanasurary.org
~ 604~