________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३६०] गाथा ||१-४||
दीप अनुक्रम [३८७-३९१]
कतयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिनियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८. पूर्णोऽपि जलादेविष्यन्दते-श्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ पुरुषस्तु पूर्णोऽप्येको विप्यन्दते-धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १० तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावी-दुष्पकत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्न मूलप्रायश्चित्तापत्या जर्जरितं छेदादिमाप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषा-1 धिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्माधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । तथा मधुन:-क्षी-| द्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधान-स्थगनं यस्य स मधुपिधानः एवमन्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव "हिय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनः अपापम्-अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यत् हृदयं कलुषमयम्-अनीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तरसाधम्योंदिति १४ । अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चरब्विहा उबसग्गे'त्यादि सूत्रपशकमाह
चउबिहा उनसग्गा पं० त०-दिव्या माणुसा तिरिक्खजोणिया आयसंचयणिजा १, दिव्वा उपसग्गा चउम्विहा पं०
*AKADCASSES
उपसर्ग एवं तस्य भेदा:
~562~