________________
आगम
(०३)
प्रत
सूत्रांक
[३५२ ]
दीप
अनुक्रम [३७९]
“स्थान” - अंगसूत्र-३ (मूलं + वृत्ति स्थान [४], उद्देशक [४],
मूलं [ ३५२ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
शेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं यः करोत्यसावाद्यमेघसमानः, एवं स्तोकतर स्तोकतमकालापेक्षया द्वितीय तृतीय मेघसमानी असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकुर्वन् वा चतुर्थमेष समान -इति १५ । करण्डको वस्त्राभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकः- चाण्डालकरण्डकः, स च प्रायश्चर्म्मपरिकम्मपि करणवर्षादिचमशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरित स्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककरण्डकः, स च विशिष्टमणिसुत्रर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति १६, एवमाचार्यो यः पद्मज्ञक| गाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमः अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागावम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वतमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयः सारतरस्यात्, यस्तु समस्तास्वार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः सारतमस्यात् सुधर्मादिवदिति १७, सालो नामैकः सालाभिधानवृक्षजातियुक्तत्वात् साठस्यैव पर्याया- धर्म्मा बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामक इति तत्रैव एरण्डस्येव पर्याया धर्मा अवहलंच्छावत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो वहलच्छायत्यादिधर्म्मयुक्तत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्यायः अवहलच्छायत्वाद्येरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु साल इव साठो यथा हि सालो जातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलञ्च स साठ एवोच्यते तथा सालपर्यायः - साधर्म्मा
Educatuny Internationa
For Penal Use On
~ 546~