________________
आगम
(०३)
प्रत
सूत्रांक
[४४-४६]
दीप
अनुक्रम
[४४-४६]
स्था० ५
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ४६ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-1, मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
Education in
सामान्यत इति । सिद्धेरनन्तरं सिद्धिमन्तमाह- 'एगे सिद्धे' सिद्ध्यति स्म कृतकृत्योऽभवत् सेधति स्म वा-अगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्धः सितं वा बद्धं कर्म धमातं दग्धं यस्य स निरुक्तात् सिद्धः--कर्म्मप्रपञ्चनिर्मुक्तः, स चएको द्रव्यार्थतया पर्यायार्थतस्त्वनन्तपुर्याय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा | कर्मशिल्पविद्यामन्त्रयोगागमर्थयात्रा बुद्धितपः कर्म्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्म्मक्षयसिद्धस्य च परिनिर्वाणं धम्मों भवतीति तदाह- 'एगे परिनिव्वाणे' परि-समन्तान्निर्वाणं सकलकर्म्मकृत विकारनिराकरणतः स्वस्थीभवनं परिनिर्व्वाणं तदेकम् एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्म्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तद्दर्शनायाह- 'एंगे परिनिब्बुए' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधर्म्मा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां तलक्षणाजीवधर्म्मा 'एगे सदे' इत्यादिना जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुलादीनां तु सत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाञ्चित्सांव्यवहारिकप्रत्यक्षत इति ॥
एगे सदे । एने रूवे । एगे गंधे। एगे रसे एगे फासे । एगे सुब्भिसदे। एगे दुब्भिसदे। एगे सुरूबे । एगे दुरुबे । एगे दीहे । एगे इस्से । एगे वट्टे एगे तंसे एगे चउरंसे एगे पिडुले । एगे परिमंडले एगे किण्हे । एगे णीले । एंगे लोहिए। एगे हलिदे। एगे सुकिले एगे सुभिगंधे। एगे दुब्भिगंधे। एगे तित्ते । एगे कहुए एगे कसाए । एगे अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे ( सू० ४७ )
For Parts Only
~ 52~