________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३३४]
*****5
योरन्यतरस्यामभिग्रहः, गच्छान्तरगतानां तु चतस्रोऽपि कल्पन्त इति, वस्त्रप्रतिमा-वस्त्रग्रहणविषये प्रतिज्ञा, कार्पा-| सिकादीत्येवमुद्दिष्टं वखं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगे-1 नोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्राय बखं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिध्ये १, तथा प्रेक्षितं २ तथा दातुः स्वाङ्गिक परिभुतप्रायं द्वित्रेषु वा पाबानेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थान-कायोत्सर्गाद्यर्थ आश्रयः
तत्र प्रतिमा स्थानप्रतिमाः, तत्र कस्यचिवू भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित स्थानमुपाश्रयिष्यामि तत्र चाकुश्चनप्रसारणादिकां क्रियां करिष्ये, तथा किश्चिदचित्तं कुढ्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समा-* श्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया । स्वाकुचनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुथीं पुनर्यत्र त्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं-'चत्तारीत्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिक जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मुम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राग्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि काणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, ग-1 तार्थं, केवलं 'फुडे'त्ति स्पृष्टः-प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पश्चानामपि सर्वलोकात् सर्वलोके उसादात् वादरतैजसानां
दीप
अनुक्रम [३५६]
5557
~5064