________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३१९]
|३, तथा अस्तमितवासी सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति-मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोपन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्त मितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्ष राशिष्ववतरन्तीति तान् दर्शयन्नाह 'चत्तारि जुम्मे'त्यादि, जुम्मत्ति-राशिविशेषः, यो हि राशिश्चतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते-"द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥१॥" इति, उक्तराशीन्नारकादिषु निरूपयन्नाह नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्ममरराणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह-'चत्तारि सूरे'त्यादि सूत्रद्वयं कण्ठ्यं, किन्तु शूरा-18 वीराः, क्षान्तिशूरा अईन्तो महावीरवत्, तपःशूरा अनगाराः दृढमहारिवत्, दानशूरो बैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरलवृष्टिपातनादिनेति, उक्तञ्च-"वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवणेति ॥१॥" त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्कामशतेषु
१ वैश्रमणवचनसंचोदितास्तु ते तियग्नुंभका देवाः कोपशो हिरम्परमानि च तत्रोपनयन्ति ॥ १॥
दीप अनुक्रम [३४१]
~ 478~