________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७-४३]]
दीप अनुक्रम [१७-४३]
देवनारकाणां जन्म, सं चैकव्यवनवदिति ॥ तक'त्ति तकणं तर्को-विमर्शः अवायात् पूर्वा इहाया उत्तरा प्रायः शिर:कण्डूयनादयः पुरुषधर्मा इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागियेति ॥
'सन्न'त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाद्युपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति ॥ 'मन्न'सि प्राकृतत्वान्मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत् , आलोचनमिति केचित् , अथवा मन्ता मन्नियन्वं(मनितव्यं) अभ्युपगम इत्यर्थः, सूत्रद्वयेऽपि सामान्यत एकत्वमिति ॥ 'एगा विनति विद्वान् विज्ञो वा तुल्यबोधयादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद(स्य) उप्पावत् , लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः ॥ 'वेयण'त्ति प्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तु पीडालक्षणैव, सा च सामान्यत एकैवेति ॥ अस्या एव कारणविशेषनिरूपणायाह-छेयणेति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति ॥"भेयणे'ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति ।
वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह-एगे मरणे इत्यादि, मृतिमरणं अन्ते भवमन्तिम-चरमं तच्च तच्छरीरं चेत्यMान्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या,
तेषां चरमदेहाना, मरणैकता च सिद्धत्वे पुनमरणाभावादिति । अन्तिमशरीरश्च स्नातको भूत्वा म्रियते अतस्तमाह-एगे संसुद्धे' इत्यादि, एकः संशुद्धः-अशबलचरणः अकषायत्वात् 'यथाभूतः तात्त्विकः ('पत्ते'त्ति) पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरलानां प्राप्तो वा गुणप्रकर्षमिति गम्यते । 'एगेदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः
AAAAEX
SAREasatara
~ 44 ~