________________
आगम
(०३)
प्रत
सूत्रांक
[१७-४३]
दीप
अनुक्रम
[१७-४३]
ङ्गसूत्र
वृत्तिः
"स्थान"
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
-
अंगसूत्र - ३ ( मूलं + वृत्ति:)
॥ २० ॥
श्रीस्थाना- सख्यातत्वादसङ्ख्यातभेदमप्येकं मननलक्षणत्वेन सर्वमनसामेकत्वादिति || 'एगा वहति वचनं वाक्-औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्य समूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव सर्ववाचां वचनसामान्येऽन्तर्भावादिति ॥ 'एगे कायवायामेत्ति चीयत इति कायः शरीरं तस्य व्यायामो४ व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन ससमकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति यच्चैकस्यैकदा मनःप्रभृतीनामे | कत्वं तत् सूत्र एव विशेषेण वक्ष्यति, 'एगे मणे देवासुरे त्यादिनेति सामान्याश्रयमेवेहकत्वं व्याख्यातमिति ॥ 'उप्प'त्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया चैकोऽसाविति ॥ 'विग्रह' ति विगतिर्विगमः, सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम् अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । 'वियय'त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगताच, प्राकृतत्वादिति विधर्चा वा विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, सा चैका सामान्यादिति ॥ 'ग'न्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादो जीवस्य गमनं गतिः, सा बैंकदेकस्यैकैव ऋज्यादिका नरकगत्यादिका था, पुद्गलस्य वा स्थितिबैलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति ॥ 'आग'त्ति आगमनमागतिः - नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ॥ 'चयणे'ति च्युतिः च्यवनम्-वैमा निकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ 'उबवाए'ति, उपपतनमुपपातो
For Park Use Only
मूलं [४३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 43~
१ स्थानाध्ययने
एकयोगता
॥ २० ॥
nary org