________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७-१६]
दीप अनुक्रम [७-१६]
तिपातादि निरुध्यते येन परिणामेन स संवरः, आनवनिरोध इत्यर्थः, स च समितिगुप्तिधर्मानुप्रेक्षापरीषह(जय)चारित्ररूपः क्रमेण पश्चत्रिदशद्वादशद्वाविंशतिपश्चभेदः, आह च-"समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसहा २२ चरित्तं च ५। सत्तावन्न भेया पणतिगभेयाई संवरणे ॥१॥"त्ति, अथवाऽयं द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्यगतनाबादेरनवरतप्रविशज्जलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कम्भेजलानामि-18 न्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ।। संवरविशेषे चायो-४ ग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह-एगा बेयणा' वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकम्र्मापेक्षया अष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्रमिकी-रोगादिजनितेत्येवं द्विविधाऽपि वेदनासामान्यादेकैवेति ॥ अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां निरूपय-10 नाह-एगा निजरा' निर्जरणं निर्जरा विशरणं परिशटनमित्यर्थः, सा चाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन द्वादशविधाऽपि अकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरासामान्यादेकैवेति । ननु निर्जरामोक्षयोः का प्रतिविशेषः?, उच्यते, देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति । इह च जीवो विशिष्टनिर्जराभाजनं प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह-एगे
स्था०४
Randiturary.orm
"पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~ 40~