________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
सूत्रांक
वृत्तिः
पापसत्ता
[७-१६]
॥१८॥
4%250
दीप अनुक्रम [७-१६]
ण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या १ स्थानाकाचित् शुभमात्रेत्यर्थः-दुःखप्रकर्ष इति तात्पर्य, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावा- ध्ययने मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखं, तस्यैव च किश्चित्पथ्याहारविवर्जनादपथ्याहारपरि-13 वृद्धेरारोग्यसुखहानिः, सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्माप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात् , सौख्यप्रकर्षानुभूतिवत् , यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात्) स्वानुरूपपापकर्ममकर्षज-18 निता भविष्यतीति प्रमाणफलमिति, आह च-"कम्मष्पगरिसजणिय तदवस पगरिसाणुभूइओ । सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१॥” इति, तदिति दुःखमिति । इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह-'एगे आसवे' आश्रवन्ति-प्रविशन्ति येन काण्यात्मनीत्याश्रवः, कर्मबन्धहेतुरिति भावः, स चेन्द्रियकपायानतक्रियायोगरूपः | क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च-"इंदिय ५ कसाय ४ अब्वय ५ किरिया २५ पणचउरपंचपणुवीसा । जोगा तिनेव भवे आसवभेया उ बायाला ॥१॥" इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यजलान्तर्गतनावादी तथाविधच्छिद्रैजलप्रवेशनं भावाश्रवस्तु यजीवनावीन्द्रियादिच्छिद्रुतः कर्मजलसञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह-'एगे संवरे' संत्रियते-कर्मकारणं प्राणा
१ कर्मप्रकर्षजनितं तद् ( दुःख) अवश्यं प्रकर्षानुभूतेः । सौख्यप्रकर्षानुभूतियथा पुण्यप्रकर्षप्रभवा ॥ १ ॥ २ तथाविधपरिणामेन छिदै
"पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~ 39~