SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- गसूत्रवृत्तिः प्रत सूत्रांक [२५४] स्थाना० उद्देशः १ अजीवास्तिकायाः सू०२५२ आमादि ॥१९६॥ दीप अनुक्रम [२६८] रमित्यर्थः, तथा पक्कं सत् आममधुरं प्राग्वत् , तथा पक्कं सत् पक्कमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-चयः श्रुताभ्याम- व्यक्तः आममधुरफलसमाना, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात् , तथा आम एवं पक्कमधुरफलसमानः- पक्कफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्कोऽन्यो वयः श्रुताभ्या परिणतः आममधुरफलसमाना, उपशमादिमाधुर्यस्याल्पत्वात् , तथा पक्वस्तथैव, पक्कमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्कमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह'चउब्बिहे सचे' इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्म वा ऋजुकता कायस्थ ऋजुकता का- यर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङमनसां यथावस्थितार्थप्रत्यायनार्धाः प्रथत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किश्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना तद्विपक्षेण योगः-सम्बन्धोऽविसंवादनायोग इति, 'मोसे'त्ति मृषाऽसत्यं कायस्थानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणिधान-प्रयोगः, तत्र मनसः प्रणिधानम्-आतरौद्रधर्मादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं बाकाययोरपि, उपकरणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग उपकरणप्रणिधानं । 'एवं'मिति | यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्पणिपानश्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं-मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं सत्यमणि धाने सू०२५४ ॥१९६॥ ~395~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy