SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४९] तिष्ठिता, उक्त च--"सापेक्षाणि च निरपेक्षाणि च कोणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमं च दृष्ट यथाऽऽयुकम् ॥१॥" इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्थाभावप्रसङ्गादिति । एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तसरिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालोभैदण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां ४ स्वं स्वमुखत्तिस्थानं प्रतीत्य-आश्रित्य एवं वस्तु सचेतनादि ३ वास्तु वा-गृहम् शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरण, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं भवमनुवनाति-अविच्छिन्नं करोतीत्येवंशीलोडनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु 'पढमिल्लुयाण उदए नियमेत्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं सङ्गतमाभातीति, अत्रोच्यते, 'पढमेल्लुयाणे'त्यादि यदुक्तं तदनन्तानुबन्धिनां न सम्यक्रषावारकतया किन्तु सम्यक्त्वसहभाब्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेष सम्यक्रकस्थावृत्तस्वात् किमपरेण मिथ्यात्वेन प्रयोजनं?, आवृतस्याच्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा "केवलियनाणलंभो १कषावाणां क्षयादन्यत्र न केवलज्ञानलभः ॥ दीप अनुक्रम [२६३] 25 'कषाय' अर्थ एवं वर्णनं ~390~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy