________________
आगम
(०३)
प्रत
सूत्रांक
[२३६]
दीप
अनुक्रम
[२५० ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
उन्नतपरिणतः अशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येकः, द्वितीये भने प्रणतपरिण त उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दार्शन्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परि| णामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रं, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येवं, प्रत्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया उन्नतमनाः प्रकृत्या औदार्यादियुक्तमनाः, एवमन्येऽपि त्रयः, 'एव' मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थ, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थः, उन्नतत्वं चास्यौदार्यादियुक्ततया सदर्थविषयतया वा ८, प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्ञ्चोन्नतत्वमविसंवादितया ९, तथा दर्शनं दृष्टिःचक्षुर्ज्ञानं नयमतं वा तदुन्नतत्यमप्यसंवादितयैवेति १०, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलं - | समाधिस्तत्प्रधानस्तस्य वाऽऽचार:- अनुष्ठानं शीलेन वा-स्वभावेनाचार इति, उन्नतत्वं चास्यादूषणतया, वाचनान्तरे तु शीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति ११, व्यवहारः - अन्योऽन्यदानग्रहणादिविवादो वा, उन्नतत्वमस्य श्लाध्यत्वेनेति १३, पराक्रमः - पुरुषकारविशेषः परेषां वा शत्रूणामाक्रमणं, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति १२, उन्नतविपर्ययः सर्वत्र प्रणतत्वं भावनीयमिति, 'एगे पुरी'त्यादि एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमितियावत्, इह मनःप्रभृतीनां दा
Eucation International
For Parata Lise Only
मूलं [ २३६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~368~