SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७-१६] दीप अनुक्रम [७-१६] श्री स्थाना ङ्गसूत्रवृत्तिः ॥ १५ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) - स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३] -------- Eaton Internationa नापेक्षाकारणमन्तरेण भवितुमर्हतः दृश्यते च तद्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपे क्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेति, किञ्च - अलोकाभ्युपगमे सति धर्माधर्म्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुगलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखवन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च - " तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुहे लोगोलोगोत्ति को भेओ १ ॥ १ ॥ लोगविभागाभावे पडिघाताभावओऽणवत्थाओ । संववहाराभावो संबंधाभावओ होज्जा ॥ २ ॥” इति । आत्मा च लोकवृत्तिर्धर्म्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा वध्यत इति वन्धनिरूपणायाह-'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदृत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्वन्धाभावाद्वा एको बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्म्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्म्मणोः १ तस्मात् धर्माधर्मौ लोकपरिच्छेदकारिणौ युक्ती इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ॥ १ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थानात् । संव्यवहाराभावः संवन्धाभावतो भवेत् ॥ २ ॥ २ सदस्टायपेक्षया. For Parts Only मूलं [ १६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः "धर्म, अधर्म, बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या ~ 33~ १ स्थानाध्ययने धर्मास्ति कायाद्या निर्जरा न्ताः ७-१६ ।। १५ ।। www.landbrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy