________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२०१]
रुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-'तिविहें'त्यादि सूत्रचतुष्टयं सुगम, केवलं 'नाणे'त्यादि, ज्ञानाद्यतिचारशुद्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकालाविनयाध्ययनादयोऽधावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राः चारित्र
स्येति। 'अणुग्धाइम'त्ति उद्घातो-भागपातस्तेन निर्वृत्तमुद्घातिमं, लम्वित्यर्थः, यत उक्तम्-"अ ण छिन्नसेसं पुब्बद्धेणं दतु संजुयं काउं। देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥” इति, भावना-मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि,
ततो मासापेक्षया पूर्व तपः पञ्चविंशतितमं तदई सार्बद्वादशकं तेन संयुतं मासाद्ध, जातानि सप्तविंशतिर्दिनानि सा - नीत्येवं कृत्वा यद् दीयते तलघुमासदानम् , एवमन्यान्यपि, एतन्निषेधादनुद्घातिमं तपो, गुञ्चित्यर्थः, तद्योगात्साधवो-1 ऽपि वा तथोच्यन्ते, 'हस्तकर्म' हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिद्धं तत्कुर्वन् , सप्तमी चेयं षष्ठचा, तेन कुर्वत इति व्याख्येयम् , एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयते स कल्पादितोऽवसेयः, 'पारंचिय'चि पार-तीरं तपसा अपराधस्याञ्चति-गच्छति ततो दीक्ष्यते यः स पाराची स एवं पाराश्चिकः तस्य यदनुष्ठानं तच्च पाराभिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्वहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते-"आसायण पडिसेवी दुविहो पारंचिओ समासेणं । एकेकंमि य भयणा सचरित्ते चेव अचरित्ते ॥१॥
अन छिने शेषं पूर्वतपोऽर्धन संयुफ पला । सफदानं दद्या गुरुदानं तावदेव ॥१॥ २ समासेन पाराधिको द्विविधा आशातनायो प्रतिसेवाय च। एकेकस्मिन् भजना च संचारित्र भकारिने एवं ॥१॥
दीप अनुक्रम [२१५]
अणुग्घाईमं आदि प्रायश्चित्तस्य वर्णनं
~328~