________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८५]]
दीप अनुक्रम [१९८]
विहिपडिसेहाणुगं तस्थ"त्ति तत्र तद्वाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठान है। वा स विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति १०, अर्थस्य-राजलक्ष्म्यादेोनिः-उपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदो-II जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, कचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनयः पश्यन्ते, भवन्ति चात्र श्लोकाः-"परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यानश्मायत्याः संप्रकाशनम् ४ ॥१॥" अस्मिन्नेवं कृते इदमावयोभविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, "वाचा पेशलया साधु तवाहमिति चार्पणम् ५ । इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम् ॥१॥" वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति
दण्डविधान दण्डोऽपि विविधः स्मृतः ॥२॥ स्नेहरागापनयनं १, संहर्षोत्पादनं तदा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु है त्रिविधः स्मृतः॥३॥"संहर्षः-स्पर्द्धा सन्तर्जनं च-अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति,
प्रदानलक्षणमिदम्-"यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्वं च ३, स्वयंग्राहप्रवर्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥ १॥ धनोत्सर्गो-धनसम्पत् स्वयंग्राहप्रवर्तनम्-परस्वेषु देयप्रतिमोक्ष-ऋणमोक्ष इति, प्रयोगश्चासामेवम्-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥" इति । अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह
EASEE
SAREauratonintennational
~306~