________________
आगम
(०३)
प्रत
सूत्रांक
[१८५ ]
दीप
अनुक्रम [१९८]
श्रीस्थाना नसूत्रवृत्तिः
॥ १५१ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
मूलं [१८५ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३]
सिद्धार्थमनुष्ठानं वा स च व्यवसायिनां 'धार्मिका १ धार्मिक २ धार्मिकाधार्मिकाणां संयतासंयत देशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा ४, व्यवसायो- निश्चयः, स च प्रत्यक्षोऽवधिमनः पर्यायकेवलाख्यः प्रत्ययात्-इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः साध्यम्-अन्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकम् - अनुमानं तद्रूपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः - स्वयंदर्शनलक्षणः प्रात्ययिकः- आष्ठवचनप्रभवः तृतीयस्तथैवेति ५, इहलोके भव ऐहलौकिको-य इह भवे वर्त्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स ५ पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समयः साङ्ख्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरं अर्थधर्मकामविषयो निर्णयो यथा-"अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च । कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥ १ ॥ इत्यादिरूपः तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति ८, ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामा (म)यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव पर्यायशब्दखात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् यच्चोच्यते, "सच्चरणमणुद्वाणं
१ तत्र विधिप्रतिषेधानुगमनुष्ठानं सचारित्रे.
Education Internationa
For Palsta Use On
~305~
३ स्थानकाध्ययने उद्देशः इ
सू० १८५
॥ १५१ ॥
www.ncbrary.org