________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८२]
दीप अनुक्रम [१९५]
*****5*5556******
कालिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम् , भोजनस्थाने ढौकितं भक्तमिति भावः, फलिक-प्रहेणकादि, |तच तदुपहृतं चेति फलिकोपहतं अवगृहीताभिधानपञ्चमपिण्डैपणाविषयभूतमिति, यदाह व्यवहारभाष्ये-"फेलियं|| पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं । भोत्तुमणस्सोवहियं पंचमर्पिडेसणा एस ॥१॥” इति, तथा शुद्धम्-अलेपकृतं शुद्धोदनं च, तच्च तदुपहतं चेति शुद्धोपहृतं, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्त-13 कामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा-"सुद्धं च अलेवकडं अहव ण सुद्धोदणो भवे सुद्धं । संसद्ध आउत्तं [भोक्तुमारब्धमित्यर्थः> लेवाडमलेवर्ड वावि ॥१॥” इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधयो भवन्तीति ४ अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'य'दिति भक्तम् , चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिटिकायाः कूरं गृहीत्या यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणित-मा देहि, अत्रावसरे प्राप्लेन साधुना धर्मलाभितं, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम् , इह च |संयतप्रयोजने गृहस्थेन हस्त एवं परिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहार-1
कालिक प्रहणकादि व व्यञ्जनभक्ष्याविरहित । भोलुमनस उपहत पंचमी पिंपरीषा ॥१॥ २एवं चालेपकतं अथवा शुद्धोदनः शर्व भवेत्सरः । आयुफ (भोक्तुमारब्ध) लेपकृतमलेपकृतं वापि ॥१॥
~298~