________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१७७]]
दीप अनुक्रम [१९०]
अधुनोपपन्नो देवा, केत्याह-देवलोकेविति, इह च बहुवचनमेकस्यैकदा अनेकेपूरपादासम्भवादेकार्थे रश्यं वचनव्यत्ययादेवलोकानेकत्वोपदर्शनार्थ वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेदू' अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थ मानुषाणामयं मानुषस्तं 'हव्वं' शीघं 'संचाएईत्ति शक्नोति, दिवि-देवलोके भवा दिव्यास्तेषु कामौ च-शब्दरूपलक्षणी भोगाश्च-गन्धरसस्पशोंः कामभोगास्तेषु, अथवा काम्यन्त इति कामा:-मनोज्ञास्ते च ते भुज्यन्त इति भोगाः-शब्दादयस्ते च कामभोगास्तेषु मूञ्छित इव मूञ्छितो-मूढः, तत्स्वरूपस्यानित्यत्वादविबोधाक्षमत्वात् , गृद्धः-तदाकाठगवान् अतृप्त इत्यर्थः, प्रथित इव ग्रथितस्तद्विषयस्नेहरजूभिः सन्दर्भित इत्यर्थः, अध्युपपन्न:-आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ बनाति-एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदान प्रकरोति-पते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम्-अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तुस्थिरीभवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया विशिष्टः प्रकल्पा-आचार आसेवेत्यर्थस्तं 'प्रकरोति कर्तुमारभते, प्रशब्दस्यादिकार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येक कारणं १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूञ्छितादिविशेषणो भवति ततस्तस्य मानुष्यर्क-मनुष्यविषयं प्रेम-नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यं-स्वर्गगतवस्तुविषयं सङ्कान्तं-तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स गति तस्य-देवस्य एवं ति एवंप्रकार
~288~