________________
आगम
(०३)
प्रत
सूत्रांक
[१७४]
दीप
अनुक्रम [१८७]
श्रीस्थानानसूत्रवृत्तिः
॥ १४० ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
मूलं [ १७४ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
काध्ययने उद्देशः ३ सू० १७४
अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति, अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् १ ३ स्थानसम्भवत्येवासौ, कथमन्यथाऽभिधीयते - “जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुपत्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करेंति आसायण ते गुरूणं ॥ १ ॥” इति, अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम्, अथवा स्वस्य मनोज्ञाः - समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञैर्ज्ञानादिभि रिति समनोज्ञाः - एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह--' आचार्यतयेत्यादि, भिक्षुक्षुलकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । 'एवं उवसंपय'त्ति, 'एवमित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् । उपसंपत्तिरु|पसंपत्-ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहि कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक् श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहण स्थिरीकरण विस्मृतसन्धानार्थे तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दि|ष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च- "जैवसंपया य तिविहा णाणे तह दंसणे चरिते य । दंसणणाणे तिविहा दुविहाय चरित अढाए ॥ १ ॥” इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, 'एवं विजहण'ति 'एव'मित्या|चार्यत्वादिभेदेन त्रिधैव विहानं परित्यागः तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पच्या भवतीति, आह च - "नियैगच्छादनंमि उ सीयणदोसाइणा होइ"त्ति, अथवा आचार्यो ज्ञानाद्यर्थमुपस
१ ये चापि गुरुं मंद इति विदित्वा बालोऽसावल्पश्रुत इति च हत्या मिध्यात्वं प्रतिपद्यमाना हीलयंति ते गुरूणामाशातनां कुर्वन्ति ॥ १ ॥ २ उपसंप त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनाने त्रिविधा द्विविधा च चारित्रार्थं ॥ १ ॥ ३ निजगच्छादन्यत्र सीदनदोषादिनैव भवति
Education Internation
For Park Lise Only
~ 283~
॥ १४० ॥
waryra