________________
आगम
(०३)
प्रत
सूत्रांक
[१७२]
दीप
अनुक्रम
[१८५]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
मूलं [ १७२]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ]
उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविषये उपेक्षणासामर्थ्यं च ततः स्थानादुत्थाय 'आय ( आए ) 'त्ति आत्मना एकान्तं - विजनं अन्तं भूविभागमवक्रामेत् गच्छेत् । निर्ग्रन्थस्य ग्लायतः - अशक्नुत्रतः, तृड्वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओ'ति तिस्रः 'विषड'त्ति पानकाहारः, तस्य दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्-आश्रयितुं वेदनोपशमायेति, उत्कर्ष :- प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामात्रं वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि - कलमकाञ्जिकावश्रावणादेः द्राक्षापानकादेव प्रथमा १ पष्ठिका [दि] काञ्जिकादेर्मध्यमा २ तृणधान्य काञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्वोत्कर्षादि नेयमिति । तिर्हि ठाणेहिं समणेनिगं साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्रमति तं सतं वा दहुं, सस्स वा निसम्म, तवं मोसं आउट्टति चत्थं नो आउट्टति (सू० १७३) विविधा अणुन्ना पं० नं० - आयरिवत्ताए उवज्झायन्तार गणिताते। तिविधा समणुन्ना पं० नं० - आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उवसंपया, एवं विजहणा (सू० १७४ ) 'सामियंति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगः- साधूना समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं विसम्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिक्रामति-न खत्यत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारों, तथा 'सहस्स'ति श्रद्धा
Education Internation
For Parts Only
~ 280~