________________
आगम
(०३)
प्रत
सूत्रांक
[१६३]
दीप
अनुक्रम [१७६]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ]
मूलं [ १६३ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
चतुर्विंशतिदण्ड कचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पश्वेन्द्रि-' यतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह- 'एव' मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि विकत्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यङमनुष्येष्विति भावः, एवं चैतानि षडिंशतिः सूत्राणि भवन्तीति ॥ अथैषां नारकादिषु कथमसम्भव इति १, उच्यते, नारकादीनां द्वाविंशतेर्जीवविशेषाणां नारकदेवेपूत्पादाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दित्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु | नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां स्ववधिर्नास्त्येवेति । यथोक्तानि च गत्यादिपदानि त्रसानामेव सम्भवन्तीति सम्बन्धात्रसान्निरूपयन्नाह
तिविहा तसा पं० [सं० तेउकाइया बाउकाइया उराला तसा पाणा, तिविधा थावरा, पं० सं० पुढविकाइया आउकाइया वणरसइकाइया (सू० १६४ )
'तिविहे 'त्यादि स्पष्ट, किन्तु त्रस्यन्तीति त्रसाः-चलनधम्र्माणः, तत्र तेजोवायवो गतियोगात् त्रसाः, उदाराः-स्थूलाः 'सा' इति श्रसनामकर्मोदयवर्त्तित्वात्, 'प्राणा' इति व्यक्तोच्छ्वासादिप्राणयोगात् द्धीन्द्रियादयस्तेऽपि गतियोगादेव त्रसा इति । उक्तास्त्रसाः, तद्विपर्ययमाह - 'तिविहे 'त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेषं व्यक्तमेवेति । इह च पृथिव्यादयः प्रायो ऽङ्गुलासवेय भागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावानिश्चयाच्छेद्यादीनष्टभिः सूत्रैराह
Education Internation
For Parts Only
~270~