________________
आगम
(०३)
प्रत
सूत्रांक
[१५३]
दीप
अनुक्रम
[१६१]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
मूलं [१५३]
स्थान [३], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
चामभिसम्बन्धः - अनन्तरसूत्रेण चन्द्रमज्ञयादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या -लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नामस्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्य शरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च- "जीवमजीवे रूवमरुवी सपएसअप्पएसे य । जाणाहि दव्वलोयं णिच्चमणिच्चं च जं दब्बं ॥ १ ॥” इति, भावलोकं त्रिधाऽऽह — 'तिविहेइत्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च तत्रागमतो लोकपर्यालोचनोपयोगः तदुपयोगानन्यत्वात् पुरुषो वा, नोआगमतस्तु सूत्रोको ज्ञानादिः, नोशन्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तं च-- "ओदश्य उवसमिए य खइए व तहा खओवसमिए य । | परिणाम सन्निवाए य छविहो भावलोगो उ ॥ १ ॥” त्ति, एवं दर्शनचारित्रलोकावपीति ॥ अथ क्षेत्रलोकं त्रिधाऽऽह| 'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरि|ष्टान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वात् ऊर्द्ध लोको देशोनसप्त
|
१ जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाव | जानीहि द्रव्यलोकं नित्यमनित्यं च यद्रव्यं ॥ १२ औदायिक औपशमिकः क्षायिकः क्षायोपश मिकक्ष तथा परिणामः सन्निपातश्च षड्विधो भावलोक इति ॥ १ ॥
Education International
'लोक' शब्दस्य व्याख्या एवं निक्षेपाः
For Park Use Only
~256~