SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२] दीप अनुक्रम [२] “स्थान” - अंगसूत्र-३ (मूलं + वृत्ति मूलं [२] स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०३ ], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १० ॥ ★ ज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो चिय नेगमनयाइमयगोयरो होइ ॥ २ ॥ त्ति, एवं प्रतिसूत्रं स्वयमनुसरणीयं वयं तु संक्षेपार्थं क्वचित्किञ्चिदेव भणिष्याम इति । यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्य मतस्तद्विचारं तावदादावाह * एगे आया (सू०२) एको न व्यादिरूप आत्मा जीवः कथञ्चिदिति गम्यते, तत्र अतति सततमवगच्छति 'अत सातत्यगमन' इति वचनादतो धातोर्गत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा जीवः, उपयोगलक्षणत्वादस्य सिसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावे चाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात् एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति, अथवा अतति- सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामध्यात्मशब्द व्यपदेशप्रसङ्गः तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवं व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्, जीव एव आत्मा नाकाशादिरिति यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशार्थतया त्वनेकत्वमसङ्घ चेयप्रदेशात्मकत्वात् तस्येति, तत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता- प्रदेशगुणपर्यायाधा [१] [[पदार्थज्ञानप्रा० प्र. आत्मा- अर्थ, व्युत्पत्ति, आत्मन: एकत्वं, For Pal Pal Use Only ~23~ १ स्थाना ध्ययने एकानेकात्मतासि द्धिः सू० २ ॥ १० ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy