SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति© स्थान [१], उद्देशक [-], मूलं [२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: रता अवयविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो-निरवययोंऽशः स चासावर्थश्चेति प्रदेशार्थः तस्य भावः प्रदे-13 शार्थता-गुणपर्यायाधारा (रता अ) वयवलक्षणार्थतेतियावत्, नन्ववयवि द्रव्यमेव नासि, विकल्पदयेन तस्यायुज्यमानत्वात् , खरविषाणवत्, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद्?, न तावदभिन्नमभेदे हि अवयविद्रव्यवदवयवानामेकत्वं स्याद् , अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात् , अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिवन्धनत्वादिति, भिन्नं चेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति ?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य ?, अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वार्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतो वेति ?, सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपि देशेषु कथमित्यादि-18 | रनवस्था स्यादिति, अत्रोच्यते, यदुक्तम्-'विकल्पद्वयेन तस्यायुज्यमानत्वादिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात् , अवयवा एव हि तथाविधैकपरिणामितया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्थात् , तथा च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं न स्यात् , तथा च सर्वमसमञ्जसमापनीपोत, सन्निवेशविशेषाद् घटायवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं, केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चो च्यते-विरुधर्माध्यासो भेदनिवन्धनमिति, तदपि न सूक्तं, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारादापेक्षया वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति । किश्व-विद्यते 564456-48-49-6-5045-50 आत्मन: सिध्धि: ~ 24~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy