________________
आगम
(०३)
प्रत
सूत्रांक [६]
दीप
अनुक्रम [१०० ]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
स्थान [२],
उद्देशक [VI.
मूलं [ ५६ ]
..आगमसूत्र [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मुनि दीपरत्नसागरेण संकलित .....
Eaton Intematona
..........
-
अणुभागं कसायओ कुणइ "त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह- 'जी वाण' मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते - सामान्येन बन्धो द्वेधा- प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु वन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात् यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम् उक्तं च- "अप्पं वायर मउयं बहुं च रुक्खं च सुकिलं चैव । मंदं महन्वयं तिय सायाबहुलं च तं कम्मं ॥ १ ॥” इति, अल्पं स्थित्या बादरं परिणामतः मृद्वनुभावतः बहु प्रदेशः मन्दं लेपतो बालुकावत्, महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह - 'जीवा णमित्यादि, जीवाः सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्यां कार णाभ्यां पापम्-अशुभमशुभभवनिबन्धनत्वात् न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं तस्य केवलयोगप्रत्ययत्वादिति, वनन्ति-स्पृष्टाद्यवस्थां कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः तत्कथं कषाया एव इहोक्ता इति ?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थ, प्राधान्यं च स्थित्यनुभागप्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च - " को दुक्खं पावेजा कस्स व सोक्खेहिं बिम्हओ होज्जा ? । को वा न लहेज मोक्खं ? रागद्दोसा जइ न होजा ॥ १ ॥” इति अथवा बन्धहेतु देशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयवद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिन१ तत्सयोगिक अल्पं बाद मृदु बहु रूक्षं शुत्रं चैव मंदं महाव्ययं साता बहुलमिति ॥ १ ॥ २ को दुःखं प्राप्नुयात् कस्य वा सुखैर्विमयो भूयात् को न लभेत मोक्षं रागद्वेषा यदि न भवेतां ॥ १ ॥
For Parts Only
~ 180 ~