SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [९५] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [९५] दीप अनुक्रम [९९]] भूमिभूतेषु धान्यानि कृषीवलाः संवहरित रक्षार्थमिति ६, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि ७, आरामा-वि-13 विधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इसि, उद्यानानि पत्रपुष्पफलच्छा-1 योपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं-गमनं येष्विति ८, वनानीत्येकजातीयवृक्षाणि वनखण्डा:-अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरस्रा पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि-जलाशयविशेषाः सरःपतयः-सरसा पद्धतयः ११, 'अगह'त्ति अवटा:-कूपाः, तडागादीनि प्रतीतानि १२, पृथिवी-रलप्रभादिका उदधिः-तदधो घनोदधिः १४, वातस्कन्धा:-धनवाततनुबाता इतरे वा अवकाशान्तराणि-वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् १५, पलयानि-पृथिवीनां बेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति विग्रहा-लोकनाडीवक्राणि, जीवता येषां पूर्ववत् १६, द्वीपाः समुद्राश्च प्रतीताः १७, बेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीता: १८, द्वाराणि-विजयादीनि तोरणानि तेष्वेवेति १९, नैरयिका:-क्लिष्टसत्त्वविशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरविकावासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विशतिदण्डकोऽभिधेयः ४३ अत एवाह-यावदित्यादि, कल्पा:-देवलोकास्तदंशाः कल्पविमानाबासाः ४४, वर्षाणि-भरतादिक्षेत्राणि वर्षधरपर्वता:-हिमवदादयः ४५, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि ४६, विजया:-चकवतिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्या-क्षेमादिकाः, 'जीवे'त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ४७ । येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह-'छायेत्यादि सूत्रपञ्चकं गतार्थम् , नवरं छाया वृक्षादीनामातपः | Sanitaram.org ~178~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy