________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [९५]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
२ स्थानकाध्ययने उद्देशः४
सूत्राक
[९५]
दीप अनुक्रम [९९]]
००००, पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सञ्जयानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमकस्थानशतं भवति, अत्र करणगाथा-"इच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणितं च । काऊणं तइवारे पुच्वंगाईण मुण संखं ॥१॥" शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमायाः पश्चिमे भागे नरतिरश्चां चायुमीयत इति, किश्च-शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, स चानतिशायिनां न व्यवहारविषय इतिकृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाद्युपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि-असङ्ग्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोव्य उत्सर्पिणी, एवमेवावसर्पिणीति । कालविशेषवत् प्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह-गामे'त्यादि, इह च प्रत्येक जीवाइ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमा:-वणिनिवासाः। राजधान्यो-यासु राजानोऽभिषिच्यन्ते २ खेटानि-धूलिप्राकारोपेतानि कर्बटानि-कुनगराणि ३, मडम्बानि सर्वतोऽर्द्धयोजनात् परतोऽवस्थितप्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः ४, पत्तनानि येषु जलस्थलपथयोरन्य|तरेण पयोहारप्रवेशा, आकरा-लोहाद्युत्पत्तिभूमयः ५, आश्रमाः-तीर्थस्थानानि संवाहा:-समभूमी कृषि कृत्वा येषु दु
१ इच्छितस्थानेन गुण्यं शून्यपंचक चतुरशीतिगुणितं च । पूर्वागादीनां संख्या ततिबारान् कृत्या आभीहि ॥१॥
~ 177~