________________
आगम
(०३)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम [ ७६ ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
स्थान [२], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
त्यर्थः, 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः उक्तं च- "पुण्यामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेजा जाए जिणादओ वा हवेज्ज जिणचेइयाई वा ॥ १ ॥” इति ॥ 'एव' मिति यथा प्रत्राजनसूत्रं दिगद्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचनेन १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महात्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः-अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टुं योगसामाचार्येव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति ९, प्रतिक्रमितुं प्रतिक्रमणं कर्त्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च"संचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च - "रहाऽवि तहाजातीयमेव नवरं परप्पयासणए ति १२, 'विउट्टित्तए'त्ति व्यतिवर्त्तयितुं विनोटयितुं विकुयितुं वा अतिचारानुबन्धं विच्छेदयितुमित्यर्थः । १३, विशोधयितुमति चारपङ्क।पेक्षयाऽऽत्मानं विमलीकर्त्तुमिति १४, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं,
Educator International
१ पूर्वमुखो बोतरमुखो वा दयादथवा प्रतीच्छेत् यस्यां जिनन्दवो वा भवेयुर्जिनचैखानि वा ॥ १ ॥ २ खरितपचातापो निन्दा ३ गऽवि तथाजातीयैव नवरं परस्मै प्रकाशनम्,
मूलं [ ७६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Park Use Only
~ 116~