________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७३]
दीप अनुक्रम [७३]
|रिणतानीति द्रव्यसूत्र षष्ठम् । 'दुविहे त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापनाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं प्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति ॥ 'दुविहा पुढवीत्यादि षट्सूत्री, अनन्तरं-सम्प्रत्येव समये क्वचिदाकाशदेशे अवगादा:-आश्रितास्त एवानन्तरावगाढकाः, येषां तु यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम्-अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तम् , अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोचिसूत्र्या प्ररूपणामाह
दुविहे काले पं० सं०-ओसप्पिणीकाले चेष उस्सप्पिणीकाले चेष, दुविहे आगासे पं० त०-लोगागासे व अलोगागासे चेव, (सू०७४) तत्र कल्यते-सजायायतेऽसावनेन वा कलनं वा कलासमूहो वेति काल:-वर्तनापरापरत्वादिलक्षणः स चावसप्पिण्युत्सप्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति ॥ 'आगासे'त्ति सर्वेद्रव्यस्वभावानाकाशयति-आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, आ मर्यादा-1 भिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं
~112~