________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
+DANCACCOM
[७१]
दीप अनुक्रम [७१]
श्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रित, यत्पूर्वमेव श्रुतकृतोपकारस्पेदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च-"पुवं सुयपरिकम्मियमतिस्स जं संपर्य सुयाईयं । [२] सुयनिस्सियमियरं ५ पुण अणिस्सियं मइचउक(तं)॥१॥"ति 'सुए'त्यादि, "अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहण-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्श-12 नमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याधुलेखवान् स आन्त| मौहर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् पोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जन-तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह च-"जिजइ जेणऽत्थो घडोव्व दीवेण वंजणं तो तं । उवगरणिदियसद्दादिपरिणयद्दब्यसंबंधो॥ १ ॥"त्ति, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति | चतुर्दा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वात्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रिय| शब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात् , बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भा
पूर्व भुतपरिकमितमतेयत, साम्प्रतं धुतातीतम् । समिभित मितरत् पुनरनिश्रितं मतिचतुष्क तत् ॥१॥ २व्यज्यते येनावों घट इन दीपेग व्यसनं | (ततत्तत् । उपकरणेन्द्रियशन्दादिपरिणतद्रव्यसम्बन्धः ॥1॥
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~ 104~