________________
आगम
(०३)
प्रत
सूत्रांक
[७५४
-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
Educate
"स्थान"
स्थान [१०],
-
अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ]
उद्देशक [-],
ननगरवासी महर्द्धिको गृहपतिर्महावीरेण घोषित एकादशोपासकप्रतिमाः कृत्वोत्वनावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदिति वक्तव्यताप्रतिबद्धं प्रथममध्ययनं आनन्द एवोच्यत इति १, 'कामदेवे 'ति कामदेवश्चम्पानगरीवास्तव्यस्तथैव प्रतिबुद्धः परीक्षा कारिदेवकृतोपसर्गाविचलितप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थं द्वितीयं कामदेव इति २, 'गाहावह चूलणीपिय'त्ति चुलनीपितृनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवकव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते ३, 'सुरादेवे'त्ति सुरादेवो गृहपतिर्वाराणसी निवासी परीक्षकदेवस्य षोडश रोगातङ्कान् भवतः शरीरे समकमुपनयामि यदि धर्म न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुनरालोचितप्रतिक्रान्तस्तथैव ||दिवं गत इतिवक्तव्यताभिधायकं सुरादेव इति ४, 'चुल्लसयए'त्ति महाशतकापेक्षया लघुः शतकः चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपहियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तचुलशतक इति ५, 'गाहावइ कुंडकोलिएत्ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति ६, 'सद्दालपुते त्ति सहालपुत्रः पोलासपुरवासी कुम्भकारजातीयो गोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोद्य तेन गोशाल केनाक्षोभितान्तःकरणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिज्ञः पुनरपि कृतालोचनस्तथैव दिवं गत इतिवतव्यताप्रतिबद्धं सद्दालपुत्र इति ७, 'महासयपत्ति महाशतकानाम्नो गृहपते राजगृहनगरनि
For Final P
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~1020~
cibrary org