________________
आगम
(०३)
प्रत
सूत्रांक
[७५४
-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [७५६ ]
स्थान [१०],
उद्देशक [-],
दिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४, 'माहणे'त्ति कोशाम्यां बृहस्पतिदत्तनामा ब्राह्मणः स चान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थ ब्राह्मणादिभिर्होमं चकार, तंत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मा| स्यामष्टावष्टौ संवत्सरे पोडश २ परचक्रागमे अष्टशतं २ परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंत्राह्मणवक्तव्यतानिबद्धं पञ्चममिति ५, 'नन्दिसेणे य'त्ति मधुरायां श्रीदामराजसुतो नंदिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशे राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत् स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुष्ठिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतः नरकं गतवानित्येवमर्थे षष्ठमिति ६, 'सोरियत्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः, स च मत्स्यमांसप्रियो गलवलग्नमत्स्य कण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, स च जन्मान्तरे नन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीको नाम महानसिकोऽभूत् जीवघातरतिः मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तमं इदं चाध्ययनं विपाकश्रुतेऽष्टममधीतं ७, 'उदुम्बरे'त्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नाम्नाऽभूत् स च पोडशभिरोगेरे कदाभिभूतो महाकष्टमनुभूय मृतः, स च जन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्वन्तरिनामा वैद्य
For Fast Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~ 1018~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ibrary.org