________________
आगम (०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५६]
प्रत सूत्रांक [७५४-७५६]
साविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून उपासते-सेवन्त इत्युपासका:-श्रावकास्तगतक्रियाकलापप्रतिबद्धाः दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, तथा अन्तो-विनाशः स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृद्दशा, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममनमभिहितं, तथा उत्तर-प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः अनुत्तरश्चासाचुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिख्या| दिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिवद्धा दशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पश्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनामिका आचारदशा, दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नाच-पृच्छाः व्याकरणानि च-निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशाः-दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासङ्गेपिकदशाश्चास्माकमप्रतीता इति । कर्मविपाकदशानामध्ययनविभागमाह-कम्मे'त्यादि, 'मिगे'त्यादि श्लोकः सार्ब, मृगा-मृगग्रामाभिधाननगरराजस्य विजयनानो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन तद्दर्शनार्थं तदहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ
गाथा:
-
दीप अनुक्रम
-
[९६६
-
-९७६]
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 1016~