SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||20|| दीप अनुक्रम [६९] सूत्रकृताङ्गं शीलाङ्काचार्ययव चियुतं ॥ ४५ ॥ Education f “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [३], मूलं [गाथा - १० ], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - द्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽभ्यत ईश्वरादेर्दुः खस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'कथं' केन प्रकारेण दुःखस्य संवरं - दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति तच्चाजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते ?, यलवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एव जन्मजरामरणेष्टवियोगाद्यनेकदुःखत्राताघ्राता भूयो भूयो हट्टघटीन्या येनानन्तमपि कालं संस्थास्यन्ति ॥ १०॥ साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह सुद्धे अपावए आया, इहमेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरझई ॥ ११ ॥ इह संबुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुज्जो, नीरयं सरयं तहा ॥ १२ ॥ ‘इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका मोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकसूत्रपरिपाठ्या व्यवस्थितानि ते एवं वदन्ति यथाज्यमात्मा 'शुद्धी' मनुष्यभव एव शुद्वाचारो भूखा अपगताशेषमलकलङ्को मोक्षे अपापको भवति — अपगताशेषकर्मा भवतीत्यर्थः, इदम् 'एकेषा' गोशालक मतानुसारिणामाख्यातं पुनरसावात्मा शुद्धवाकर्मकत्वराशि| द्वयावस्थो भूला क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा लिप्यते इदमुक्तं भवति तस्य हि स्वशासनपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य कीडोत्पद्यते प्रमोदः संजायते, स्वशासनन्यकारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वेपाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मल पटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसथ कर्मगौरवाद्भूयः संसारेऽवतरति, For Parts Only ~94~ १ समया० उद्देश: ३ कर्तृत्ववा दः ॥ ४५ ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy