________________
आगम
(०२)
प्रत
सूत्रांक
||७||
दीप
अनुक्रम
[ ६६ ]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [३], मूलं [ गाथा- ७], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं शीलाङ्का
चार्यय
॥ ४२ ॥
।। ५ ।। तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते सर्वमिदं विमत्यधिकरणभावापर्यं तनुभ्रुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थान विशेषवच्वादिति हेतुः, यथा घटादिरिति दृष्टान्तोऽयं, यद्यत्संस्थानविशेषवत्तत्तद्बुद्धिमत्कारणपूर्वकं दृष्टं यथा देवकुलकूपादीनि, संस्थानविशेषवच्च मकराकरनदीधराधरधरातियुतं शरीरकरणादिकं विवादगोचरापन्नमिति तसादुद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवतीत्यसाबीश्वर इति तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् ४ घटादिवत्, तथा स्थिता प्रवृत्तेर्वा, वास्यादिवदिति । तथाऽपरे प्रतिपन्ना यथा— प्रधानादिकृतो लोकः, सत्वरजस्तमसां साम्यावस्था प्रकृतिः, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच 'प्रकृतेर्महान् ततोऽहङ्कारः तसाच गणः षोडशकः तसादपि षोडशकात्पश्ञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-- आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्रायमर्थ:स्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतो लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको 'जीवाजीवसमायुक्तो' जीवैः उपयोगलक्षणैः तथा अजीवैः – धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, | पुनरपि लोकं विशेषयितुमाह- 'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यां समन्वितो -युक्त इति ॥ ६ ॥ किंच- 'सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः- विष्णुरन्यो वा स चैक एवादावभूत्, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद् 'इति' एवं महर्षिणा 'उक्तम्' अभिहितम्, एवंवादिनो लोकस्य कर्तारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयतीति मारो व्यधायि तेन
-
can Internationa
For Parts Only
~88~
१. समया०
उद्देशः ३ लोककर्त्तृतानिरास:
॥ ४२ ॥
wor