________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-४], नियुक्ति: [३५]
(०२)
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
||५||
यार्थः ॥२-३॥ एवं दृष्टान्तमुपदर्य दान्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः खयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्-आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानमुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव 'घातं' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमजनोन्मजनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ॥ ४ ॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह
इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ ५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥६॥ सयंभुणा कडे लोए, इति वुत्तं महेसिणा । मारेण संथुया माया, तेण लोए असासए ॥७॥ 'इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान'मिति मोहविजृम्भणम् –'इह' अस्मिन् लोके एकेषां न सर्वेषाम् |'आख्यातम्'अभिप्रायः,किं पुनस्तदाख्यातमिति तदाह-देवेनोप्तो देवोप्तः,कर्षकेणेव बीजवपनं कसा निष्पादितोऽयं लोक इत्यर्थः ।। || देवैवों गुप्तो-रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रमणा उप्लो वक्षोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः
तथाहि तेषामयमभ्युपगमः-प्रमा जगत्पितामहः, स चैक एच जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति
Caeseseseseaersesentaeaeeraesercers
दीप
desesedestroeseeeeeeeeeeea
अनुक्रम
[६४]
~87~