________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [८१], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
ग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिहंगभेदाभिहितं वस्यन्यदेव भवति, तयथा-पुष्यस्तारका नक्षत्रमेव संख्याभिन्न जलमापो वर्षा ऋतुः, साधनभेदस्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ते पिता, अस्थायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन यास्यामीत्यत्र मध्यमोत्तमपुरुषयोयत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमती-181 त्यादि, कालभेदस्तु अनिष्टोमयाजी पुत्रोऽस्य भविता, अस्थायमर्थ:-अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति RI भविष्यदनद्यतने लुद, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य संबन्धाद्भूतकालतां परित्यज्य भविष्यत्कालता प्रतिपद्यते, तेनेदमुक्त भवति-एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति । तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गायभिन्नांस्तु पर्या
यान् अनेकविषयखेनेच्छति, तयथा----घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपयर्यायोभयरूपस्य वस्तुनो | 18| व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न बयं घटादिपर्याया-18
णामेकार्थतामिच्छति, तथाहि-घटना घट: कुटनात्कुटः को भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दा-18 |रणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाथ-RA यणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । एवंभूताभिप्रायस्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तसिन्घटादिके वस्तुनि तदैवासी युवतिमस्तकारूढ उदकाचाहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो, नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य बस्तुनोनाश्रयणान्मिथ्याष्टिः, रलावल्यवयवे पमरागादौ कृतरनावलीव्यपदेश-18 | रुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येकं मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्पत्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति
~857~