________________
आगम
(०२)
सूत्रकृता २ श्रुतस्कन्धे शीलाझीयावृतिः
॥४२६॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], निर्युक्ति: [ २०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| स्वरूपं, तद्यथा- सामान्य विशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमःमहासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यखजीवखाजीवखादिकं, विशेषाः परमाणवादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति निलयनप्रस्खकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धैस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषात्मक वस्तु समाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्य विशेषयोराश्रयणात्, तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवंखरूपः, तद्यथा सम्यक पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि अप्रच्युतानुत्पन्नस्थिरैकखभावमेव सत्तारूपं वस्त्रसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, स च संग्रहः सामान्य विशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रित सांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं तद्यथा— यथालोकग्राहमेव वस्तु, यथा व शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ?, यथा यथा लोकेन विशिष्ट भूयिष्ठतयाऽर्थक्रियाकारि वस्तु व्यवहियते | तथैव तद्वस्खित्याबालगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययधीन्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरध्यापुरुषवदिति । ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच विनष्टानुत्पन्नतयाऽतीतानागतवत्रपरित्यागेन वर्त्तमानकालक्षणभावि यद्वस्तु तत्सूत्रयति--प्रतिपादयत्याश्रयतीति ऋजुमुत्रः, तस्यैवार्थक्रियाकारितया वस्तुवलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनवन सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं तद्यथा - शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमालिङ्गवचन साधनोप
Education International
For Penal Use On
~ 856~
७ नाक
न्दीयाध्य
॥४२६