________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
8093erasasesGa92000992929
| देतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह-संसारिया'इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणा | जन्तवः स्थावराः 'प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतया-त्रसबेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पयन्ते, तथा प्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिक्षाविलोपः, तथाहि-नाग-॥ |रिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादो व्यवस्थित नागरिकं व्यापादयेत् किमेतावता तस्य
न भवेत्प्रतिज्ञाविलोपः, एवमत्रापि येन प्रसवधनिवृत्तिः कृता स यदा तमेव सं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किंवा | तस्य न भवेत्प्रतिज्ञाविलोपः १, भवत्येवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्पन्नानां प्रसानां यदि तथाभूतं किश्चिदसाधारणं लिका स्थात् ततस्ते वसाः स्थावरसेनाप्युत्पन्नाः शक्यन्ते परिहर्त, न च तदस्तीत्येतद्दयितुमाह-'थावरकायाओ'इत्यादि, स्थावरकायात्सकाशाद्विविधम् - अनेक प्रकारः प्रकर्षेण मुच्यमानाः स्थावरकायायुषा तयोग्यैश्वापरैः कर्मभिः सर्वात्मना प्रसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोपनानां तथाभूतत्रसलिशाभावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेर्सि च ण'मित्यादि, 'तेषां च' प्रसानां स्थावरकाये समुत्पनानां गृहीतत्रसपा-1 णातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तवेनैतत्स्थावराख्यं घालं स्थानं भवति, तस्मादनिवृत्तवात्तखेति ॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेव खावरलेनायात व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतदर्शयितुमाह-'णण्णत्धेत्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा-'नसभूतेषु' वर्तमानकाले ||
~825~